Sbg 6.16 scdhan
Sanskrit Commentary By Sri Dhanpati ।।6.16।।योगिन आहारादिनियमं वक्तुं प्रथमं व्यतिरेकमाह नेति। अत्यश्रतः आत्मसंमितादन्नादधिकमश्रतः योगो नास्ति। नचैकान्तमात्मसंमितमप्यनश्रतो योगोऽस्ति। उभयथापि व्याध्यादिना नाशप्रसङ्गात्। तथाच शतपथश्रुतिःयदु ह वा आत्मसंमितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न तदवति इति तस्माद्योगी नात्मसंमितादन्नादधिकं न्यूनं वाश्रीयात्। योगशास्त्रे परिपठितादन्नपरिणादतिमात्रं न्यूनं वाश्रतो योगिनो योगो नास्तीति वा व्याख्येयम्। तदुक्तम्पूरयेदशनेनार्धं तृतीयमुदकेन तु। वायोः संचरणार्थं तु चतुर्थमवशेषयेत्।। इति। एतादृशस्य योग एव न सिध्यति। तेन दुःखरुपसमूलसंसारपङ्कहान्या शुद्धत्वाविर्भावस्तु दूरनिरस्त इति सूचयन्संबोधयति हे अर्जुनेति।