Sbg 6.16 scanand
Sanskrit Commentary By Sri Anandgiri ।।6.16।।आहारादीत्यादिशब्देन विहारजागरितादि चोच्यते आत्मसंमितमन्नपरिमाणमष्टग्रासादि। आहारनियमे शतपथश्रुतिं प्रमाणयति यदु ह वा इति । तदन्नं भुज्यमानं यदु ह वा इति प्रसिद्ध्यानूदितमवति अनुष्ठानयोग्यतामापाद्यानुष्ठानद्वारेण भोक्तारं रक्षति न पुनस्तदन्नमस्यानर्थाय भवतीत्यर्थः। यत्पुनरात्मसंमिताद्भूयोऽधिकतरं शास्त्रमतिक्रम्य भुज्यते तदात्मानं हिनस्ति भोक्तुरनर्थाय भवति। यच्चान्नं कनीयोऽल्पतरं शास्त्रनिश्चयाभावादद्यते तदन्नमनुष्ठानयोग्यतादिद्वारा न रक्षितुं क्षमते। तस्मादत्यधिकमत्यल्पं चान्नं योगमारुरुक्षता त्याज्यमित्यर्थः। श्रुतिसिद्धमर्थं निगमयति तस्मादिति। नेत्यादेर्व्याख्यानान्तरमाह अथवेति। किं तदन्नपरिमाणं योगशास्त्रोक्तं यदधिकं न्यूनं वाभ्यवहरतो योगानुपपत्तिरित्याशङ्क्याह उक्तं हीति। पूरयेदशनेनार्धं तृतीयमुदकेन तु। वायोः संचरणार्थं तु चतुर्थमवशेषयेत्।। इति वाक्यमादिशब्दार्थः। यथा अत्यन्तमश्नतोऽनश्नतश्च योगो न संभवति तथात्यन्तं स्वपतो जाग्रतश्च न योगः संभवतीत्याह तथेति।