Sbg 6.12 scdhan
Sanskrit Commentary By Sri Dhanpati ।।6.12।।तत्रासनं प्रतिष्ठाप्य तत्रासन उपविश्यात्मशुद्धयेऽन्तःकरणशुद्धये। यत्त्वात्मनः प्रतीचा विशुद्धिः सविलासाविद्यापङ्कसंपर्कहानिस्तस्या इत्यर्थं इति तन्न। अविद्यापङ्कनिवृत्तेर्ज्ञानाधीनत्वात्। ज्ञानप्राप्तिद्वारा प्रतीचो विशुद्धय इति द्वारकल्पनापेक्षयान्तःकरणविशुद्य्धर्थमित्यस्यैव न्याय्यत्वात्। योगं युञ्ज्यात्। कथमित्यत आह। सर्वविषयेभ्य उपसंहृत्य मनः एकमग्रं प्रधानं चिन्तनीयं यस्येति तथा कृत्वा क्षिप्तमूढविक्षिप्तभूमित्यागेन एकाग्रनिरोधभूमिभ्यां समाहितं कृत्वेत्यपि बोध्यम्। पुनश्च यतचित्तेन्द्रियक्रियः सन् चित्तं चेन्द्रियाणि च तेषां क्रियाः संयता यस्य सः।