Sbg 6.12 scneel
Sanskrit Commentary By Sri Neelkanth ।।6.12।।प्रतिष्ठाप्य किं कुर्यादिति तत्राह तत्रेति। तत्रासने पद्मस्वस्तिकाद्यन्यतमेनासनेनोपविश्य यता निगृहीताः चित्तस्य क्रियाः विषयाणां स्मरणानि इन्द्रियक्रियास्तेषां ग्रहणं येनासौ यतचित्तेन्द्रियक्रियः। अतएव मनः बाह्याभ्यन्तरविषयानुपरक्ततया एकं ध्येयमेव प्रत्यक्तत्वं अग्रे यस्य स्फुरति नान्यत् तदेकाग्रं वृत्त्यन्तरानन्तरितब्रह्मैकाकारवृत्तिप्रवाहि कृत्वा आत्मविशुद्धये चित्तशुद्ध्यर्थं योगं वृत्तिप्रवाहस्यापि निरोधं युञ्ज्यादनुतिष्ठेत्। चित्तस्य स्थैर्यतापादनेन।