Sbg 6.10 scdhan

From IKS BHU
Revision as of 11:55, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।6.10।।एवं योगारुढस्य लक्षणं फलं च प्रदर्शितम्। अत उत्तमफलप्राप्तये योगारुढतां संपादयेदित्याह योगीति। योगी ध्यानी रहसि एकान्ते गिरिगुहादौ स्थितः सन् एकाकी सहायवर्जितः। रहसि स्थित एकाकीति विशेषणात्संन्यासं कृत्वेत्यर्थः। एकाकीत्यस्य शिष्यादिसहायरहित इत्यपि बोध्यम्। यतौ वशीकृतौ चित्तात्मानौ चित्तदेहौ यस्य स चित्तस्य चिन्तनात्मनोऽन्तःकरणपरिणामस्य यतत्वमनुभूतार्थचिन्ताव्यावृत्तत्वं देहस्य च यतत्वं मक्षिकादंशपिपीलिकादिबाधयाप्यकम्पितत्वे सति चिरकालासनप्रयुक्तदुःखशून्यत्वम्। निराशीः फलतृष्णाशून्यः। अनेन वैराग्यादिसाधनसंपन्नो मुमुक्षुः कथितः। अपरिग्रहः संन्यासित्वेऽपि चोरभयजनकपुस्तकादिसर्वपरिग्रहशून्यः एतादृशः सन् सततं सर्वदा आत्मानमन्तःकरणं युञ्जीत समादध्यात् वृत्तिनिरोधेन निरुन्ध्यात्। वृत्तयश्च पञ्चविधाः प्रमाणविपर्ययविकल्पनिद्रास्मृतय इति। तत्र प्रत्यक्षानुमानागमाख्यानि त्रीणि प्रमाणानीति सांख्यादयः। उपमानमप्यङ्गीकृत्य चत्वारीति गौतमाः। अर्थापत्तिमनुपलब्धिं चाश्रित्य षडिति वेदान्तिनो याज्ञिकाश्च। संभवमैतिह्यं चाश्रित्याष्टाविति पौराणिकाः। विपर्ययो मिथ्याज्ञानमतस्मिंस्तद्वुद्धिः शुक्तिर्वा रजतः वेत्येवमादिरुपः। प्रमा भ्रमविलक्षणो विकल्पः। निद्रास्मृती लोकप्रसिद्धे। अन्यासामपि वृत्तीनामेतास्वन्तर्भावो द्रष्टव्यः। तथाचैतदृत्तिनिरोधेनान्तःकरणं चित्तं समादध्यादिति।