Sbg 6.10 scneel
Sanskrit Commentary By Sri Neelkanth ।।6.10।। योगीति। योगी योगाभ्यासपरः रहसि एकान्ते स्थितः सन् आत्मानं बुद्धिं युञ्जीत समादध्यात्। सततमिति नैरन्तर्यमुक्तम्। निराशीर्योगसिद्धेरन्यदप्रार्थयानः तेदकनिष्ठ इति यावत्। तेन सत्कार उक्तः। एकाकीअसहायः संन्यासीत्यर्थः। यतौ स्थिरीकृतौ चित्तं मनः आत्मा सेन्द्रियं शरीरं येन स यतचित्तात्मा। तथा अपरिग्रह एकाकित्वेऽपि कन्थापुस्तकादिबहुपरिग्रहशून्यः।