Sbg 6.10 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।6.10।।एवं योगारूढस्य लक्षणं फलं चोक्त्वा तस्य साङ्गं योगं विधत्ते योगीत्यादिभिः स योगी परमो मत इत्यन्तैस्त्रयोविंशत्या श्लोकैः। तत्रैवमुत्तमफलप्राप्तये योगी योगारूढ आत्मानं चित्तं सततं निरन्तरं युञ्जीत क्षिप्तमूढविक्षिप्तभूमिपरित्यागेनैकाग्रनिरोधभूम्यां समाहितं कुर्यात्। रहसि गिरिगुहादौ योगप्रतिबन्धकदुर्जनादिवर्जिते देशे स्थितः एकाकी त्यक्तसर्वपरिग्रहजनः संन्यासी चित्तमन्तःकरणमात्मा देहश्च संयतौ योगप्रतिबन्धकव्यापारशून्यौ यस्य स यतचित्तात्मा। यतो निराशीर्वैराग्यदार्ढ्येन विगततृष्णः। अतएव वापरिग्रहः शास्त्राभ्यनुज्ञातेनापि योगप्रतिबन्धकेन परिग्रहेण शून्यः।