Sbg 6.10 scanand

From IKS BHU
Revision as of 11:55, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Anandgiri ।।6.10।।यथोक्तविशेषणवतो योगारूढेषूत्तमत्वे योगानुष्ठाने प्रयतितव्यमित्यङ्गाभिधानानन्तरं प्रधानमभिदधाति अत एवमिति। आदरनैरन्तर्यदीर्घकालत्वं विशेषणत्रयं योगस्य सूचयति सततमिति। तस्यैव पञ्चाङ्गान्युपन्यस्यति रहसीत्यादिना। सर्वदेत्यादरदीर्घकालयोरुपलक्षणम्। प्रत्यगात्मानं व्यावर्तयति अन्तःकरणमिति। गिरिगुहादावित्यादिशब्देन योगप्रतिबन्धकदुर्जनादिविधुरो देशो गृह्यते। विशेषणद्वयस्य तात्पर्यमाह रहसीति। योगं युञ्जानस्य संन्यासिनो विशेषणान्तराणि दर्शशति यतेति। सति संन्यासित्वे किमित्यपरिग्रहग्रहणमर्थपुनरुक्तेरित्याशङ्क्य कौपीनाच्छादनादिष्वपि शक्तिनिवृत्त्यर्थमित्याह संन्यासित्वेऽपीति।