Sbg 5.29 scvv

From IKS BHU
Revision as of 11:52, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha


।।5.29।।अध्यायारम्भेसन्न्यासं कर्मणां कृष्ण 5।1 इत्यादिना वैषम्ये पृष्टे ज्ञानयोगस्य दुष्करत्वादिकं कर्मयोगस्य सौकर्यं शैघ्र्यं चोक्तम् ततश्च सेतिकर्तव्यताकसशिरस्ककर्मयोगो विशदीकृतः अथात्रोपसंहारेऽपि प्राक्प्रश्नोत्तरतया प्रक्रान्तसौकर्यादिकमेव प्रकारान्तरेण स्थिरीक्रियत इत्यभिप्रायेणाह उक्तस्येति। अत्र कर्मयोगशब्देनदैवमेव 4।25 इत्याद्युक्तप्रातिस्विकप्रधानांशो गृहीतः।नित्यनैमित्तिककर्मेतिकर्तव्यताकस्येत्यनेन सर्वकर्मयोगभेदनिष्ठानां ज्ञानयोगभक्तियोगनिष्ठानां चावर्जनीयः साधारणांशः। सुशकत्वमनिर्वेदेन प्रवृत्तिविषयत्वम्। शान्तिशब्दोऽत्र न भगवत्प्राप्तिरूपमोक्षपरः जीवोपासनप्रकरणत्वात् नापि कर्मयोगसाध्यफलपरः ततोऽप्युपयुक्तस्य प्रसिद्धिस्वारस्यानुरोधिनः कर्माङ्गोपशमस्य वक्तुमुचितत्वात्ज्ञात्वा इत्यत्रअनुष्ठाय इत्यध्याहारसापेक्षत्वप्रसङ्गात् अतःसुखं बन्धात्प्रमुच्यते 5।3 इत्यादिनोक्तं मनःक्लेशशान्त्यादिरूपं सुखमत्र शान्तिशब्देन विवक्षितमित्यभिप्रायेणाह कर्मयोगकरणक्षण एव सुखमृच्छतीति। भगवत्समानाधिकरणतया सर्वलोकप्रतिसम्बन्धिकतया च महेश्वरशब्दस्यात्र न रूढिविशेषेण प्रवृत्तिरित्याह सर्वेषां लोकेश्वराणामपीति। सर्वेषां लोकानां महान्तमीश्वरमित्येव तु समासार्थः। तत्र प्रमाणमाह तमीश्वराणामिति। श्रुतावपि महेश्वरशब्दः सप्रतिसम्बन्धिकत्वात्परमत्वविशेषणाच्च न रूढः तद्वदत्रापि। सर्वशब्दासङ्कोचान्महत्त्वविशेषणावाच्च रुद्रादिलोकेश्वरान्तरव्यवच्छेद उक्तः।सर्वेश्वरेश्वरः कृष्णः वि.ध.74।44 इति हि स्मर्यते। कर्मयोगस्य दुःखरूपस्य अनुष्ठानदशायामेव कथं सुखं इति शङ्कां विशेषणत्रयेण व्युदस्यतिमामित्यादिना। महोदारसार्वभौमप्रियसखसेवायामिव कर्मयोगे सुखबुद्ध्यैव प्रवर्तत इति भावः।मदाराधनरूपः कर्मयोग इत्यनेनभोक्तारं यज्ञतपसाम् इत्यस्यार्थो विवृतः। यज्ञास्तपांसि च कर्मयोगवर्गोपलक्षणमिति भावः। सौहार्दस्य प्रयोजनान्तरनिरपेक्षसमाराधनहेतुत्वे लोकदृष्टान्तमाहसुहृद इति।सर्व इति न केवलं शास्त्रनिष्ठाः किन्तु पामरास्तिर्यञ्चोऽपि केचित् स्वेषु सौहार्दवन्तं पुरुषमिङ्गिताकारैरुपलक्ष्य तावन्मात्रेणसम्प्रीतास्तदनुवर्तनमतिप्रयत्नेन कुर्वन्तीत्यर्थः। पुरुषान्तरवदैश्वर्यमदगर्वमूलदौर्मुख्यादिवर्जनं चास्य सुहृत्त्वेन लभ्यते।