Sbg 5.29 scsh
Sanskrit Commentary By Sri Shankaracharya
।।5.29।। एवं समाहितचित्तेन किं विज्ञेयम् इति उच्यते
भोक्तारं
यज्ञतपसां यज्ञानां तपसां च कर्तृरूपेण देवतारूपेण च
सर्वलोकमहेश्वरं
सर्वेषां लोकानां महान्तम् ईश्वरं
सुहृदं
सर्वभूतानां
सर्वप्राणिनां प्रत्युपकारनिरपेक्षतया उपकारिणं सर्वभूतानां हृदयेशयं सर्वकर्मफलाध्यक्षं सर्वप्रत्ययसाक्षिणं मां नारायणं
ज्ञात्वा शान्तिं
सर्वसंसारोपरतिम्
ऋच्छति
प्राप्नोति।।इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्यश्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
पञ्चमोऽध्यायः।।