Sbg 5.18 scsri
Sanskrit Commentary By Sri Sridhara Swami ।।5.18।।कीदृशास्ते ज्ञानिनो येऽपुनरावृत्तिं गच्छन्तीत्यपेक्षायामाह विद्याविनयसंपन्न इति। विषमेष्वपि समं ब्रह्मैव द्रष्टुं शीलं येषां ते। पण्डिताः ज्ञानिन इत्यर्थः। तत्र विद्याविनयाभ्यां युक्ते ब्राह्मणे च शुनो यः पचति तस्मिञ्श्वपाके चेति कर्मणा वैषम्यम्। गवि हस्तिनि शुनि चेति जातितो वैषम्यं दर्शितम्।