Sbg 5.14 scang
Sanskrit Commentary By Sri Abhinavgupta ।।5.14।।यतः न कर्तृत्वमिति। एष आत्मा न किंचित् कस्यचित् करोति प्रवृत्तिस्तु अस्य स्वभावमात्रं न फलेप्सया। तथाहि संवेदनात्मनो भगवतः प्रकाशानन्दस्वातन्त्र्यपरमार्थस्वभावस्य स्वभावमात्राक्षिप्तसमस्तसृष्टिस्थितिसंहृतिप्रबन्धस्य स्वस्वभावान्न मनागप्यपायो जातुचित् इति न कर्त्रवस्था अतिरिक्तं कर्तृत्वं किंचित्। तदभावात् कानि कर्माणि तदसत्वे कस्य फलम् को वा कर्मफलसंबन्धः कर्म अत्र क्रिया कर्मफलमपि (S क्रियाफलमपि च कर्म ) च क्रियाफलमेव। तथाहि दण्डचक्रपरिवर्तनादिक्रिया नान्या। न च सा घटनिष्पादिता संविदन्तवंर्त्तित्त्वात्। अस्माच्चेतनः (K तस्मात् omits अस्मात् सिद्धान्तः) स्वतन्त्रः परमेश्वर एव तथा तथा भाति इति न तद्व्यतिरिक्तं क्रिया तत्फलादिकमिति सिद्धान्तः।