Sbg 5.13 scjaya
Sanskrit Commentary By Sri Jayatritha ।।5.13।।सर्वकर्माणि इत्यस्य स्वरूपेण कर्मत्यागोऽर्थ इति प्रतीतिनिवारणाय प्रतिपाद्यमाह पुनरि ति। प्राक्कर्तृत्वाभिमानत्याग उक्तः इदानीं तु कारयितृत्वाभिमानत्यागोऽपीति स्पष्टनम्। स्वरूपेण कर्मत्याग एवोच्यत इत्येतन्निराचष्टे मनसे ति। अन्यथा तद्व्यर्थं स्यादिति भावः।