Sbg 5.13 scram
Sanskrit Commentary By Sri Ramanuja ।।5.13।।आत्मनः प्राचीनकर्ममूलदेहसम्बन्धप्रयुक्तम् इदं कर्मणां कर्तृत्वं न स्वरूपप्रयुक्तम् इति विवेकविषयेण मनसा सर्वाणि कर्माणि नवद्वारे पुरे सन्यस्य वशी देही स्वयं देहाधिष्ठानप्रयत्नम् अकुर्वन् देहेन न एव कारयन् सुखम् आस्ते।साक्षाद् आत्मनः स्वाभाविकरूपम् आह