Sbg 5.6 scneel

From IKS BHU
Revision as of 11:47, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।5.6।।नन्वेवं निर्विकल्पस्थानप्राप्तये द्वौ भागावुक्तौ स्यातां तच्चनान्यः पन्था विद्यतेऽयनाय इति श्रुतिविरुद्धमित्याशङ्क्याह संन्यासस्त्विति। संन्यासो नैष्कर्म्यम्। अयोगतो योगिंविना अवाप्तुं दुःखं हे महाबाहो। अयमर्थः निर्विकल्पकसमाधिरपि तत्त्वमसीत्येतद्वाक्यार्थप्रतिपत्त्युपायभूत एव न स्वतः पुरुषार्थ इति द्वितीयमार्गस्याभावान्नोदाहृतश्रुतिविरोधः।शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति इति श्रुत्यैव शमादिवत्समाधेरप्यात्मदर्शनार्थत्वस्य दर्शितत्वात्। तथा च समाहितपदं वार्तिककारैर्व्याख्यातम्।स्वातन्त्र्यं येषु कर्तुः स्यात्करणाकरणंप्रति। तान्येव तु निषिद्धानि कर्माणीह शमादिभिः। शमादिश्रुत्याअस्वातन्त्र्यं तु येषु स्यात्करणाकरणंप्रति। समाहितोक्याथेदानीं तन्निरोधो विधीयते। अस्वातन्त्र्यं गुरूपदेशापेक्षत्वम्। येषु मानमेयव्यवहारनिरोधेषु।पिण्डीकृत्येन्द्रियग्रामं बुद्धावारोप्य निश्चलम्। विषयांस्तत्स्मृतीस्त्यक्त्वा तिष्ठेच्चिदनुरोधतः। एषोऽभ्युपायः सर्वत्र वेदान्तेषु प्रतिष्ठितः। तत्त्वमस्यादिवाक्यार्थज्ञानोत्पत्त्यर्थमादरात्। इति। एवं व्यतिरेकमुक्त्वान्वयमाह योगयुक्त इति। मुनिः संन्यासी नचिरेण शीघ्रमेव ब्रह्माधिगच्छति वाक्यश्रवणमात्रेण नतु केवलसंन्यासी। यथोक्तंन च संन्यसनादेव सिद्धिं समधिगच्छति। इति।