Sbg 5.6 scjaya
Sanskrit Commentary By Sri Jayatritha ।।5.6।।सन्न्यासस्त्वित्यस्य सङ्गतिमाह इतश्चे ति। ननु प्राक् सन्न्यासाद्योगस्य वरत्वे न कोऽपि हेतुरुक्तः तत्कथमेवमुच्यते मैवम् सन्न्यासस्य योगावरत्वे बाधकं परिहृतम्। साधकमिदानीमुच्यते। बाधकाभावसहितमेव साधकं वस्तुनो व्यवस्थापकम्। तस्मादितश्चेति युक्तम्। पूर्वं सन्न्यासस्य निश्श्रेयसकरत्वमुक्तम् इदानीं कथं दुःखहेतुत्वमुच्यते किं वाऽनेन साधकमुक्तं इत्यतो व्याचष्टे योगे ति। विष्ण्वर्पणबुद्ध्या करणाभावसन्न्यासमात्रेणेति शेषः। आदिपदेन ज्ञानं गृह्यते। तस्य केवलसन्न्यासिनः। योगाभावे सन्न्यासो निष्फल एवेत्येतन्न युज्यते मोक्षाद्यभावेऽपि तात्कालिकापमानादिदुःखाभावादेर्भावादित्यत आह मोक्षादी ति। अत्र पुराणसम्मतिमाह तच्चे ति। ननु मोक्षफलाभावेऽपि धान्यादिनैव कृष्यादिकं सफलमित्युच्यते। तत्कथमेवमभिहितमित्यत उक्तं विवृणोति यत्त्वि ति। महाफलं साधयितुं योग्यमित्यर्थः। मोक्षादिग्रहणं प्रकृतापेक्षयैव कृतमिति भावः। ननु सन्न्यासात् योगस्य वरत्वमनेन साधितं तत्किमुत्तराधन इत्यत आह महाफलश्चे ति। महत्फलं यस्मात्स तथोक्तः। योगाङ्गत्वेन ततोऽवरत्वं सन्न्यासस्य सिसाधयिषितम्। तच्चान्वयव्यतिरेकाभ्यां सिद्ध्यति। तत्र पूर्वार्धेन व्यतिरेकमुक्त्वाऽनेनान्वयमाचष्टे इत्यर्थः। ननु योगोऽप्येवमेवेति चेत् सत्यम् तथापि चरमभावित्वेन विशेषः। नन्वत्र सन्न्यासवाचकं न श्रूयते तत्कथमेवमुच्यते इत्यत आह मुनिरि ति। मुनिशब्दस्य कामवर्जनलक्षणसन्न्यासवचनत्वं कुतः इत्यत आह तच्चे ति।