Sbg 5.6 scsh
Sanskrit Commentary By Sri Shankaracharya ।।5.6।। संन्यासस्तु पारमार्थिकः हे महाबाहो दुःखम् आप्तुं प्राप्तुम् अयोगतः योगेन विना। योगयुक्तः वैदिकेन कर्मयोगेन ईश्वरसमर्पितरूपेण फलनिरपेक्षेण युक्तः मुनिः मननात् ईश्वरस्वरूपस्य मुनिः ब्रह्म परमात्मज्ञाननिष्ठालक्षणत्वात् प्रकृतः संन्यासः ब्रह्म उच्यते न्यास इति ब्रह्मा ब्रह्मा हि परः (ना0 उ 0 2.78) इति श्रुतेः ब्रह्म परमार्थसंन्यासं परमार्थज्ञाननिष्ठा लक्षणं न चिरेण क्षिप्रमेव अधिगच्छति प्राप्नोति। अतः मया उक्तम् कर्मयोगो विशिष्यते इति।।
यदा पुनः अयं सम्यग्ज्ञानप्राप्त्युपायत्वेन