Sbg 4.37 scpur
Sanskrit Commentary By Sri Purushottamji
।।4.37।।पापस्यार्णवत्वोक्त्या ज्ञानस्य प्लवत्वोक्त्या च तस्यानल्पत्वादगाधत्वादस्याल्पत्वात्तन्मध्यपातित्वात् कदाचिन्मज्जनसम्भावनापि स्यादित्यल्पस्वरूपस्य महद्वस्तुनिराकारणसामर्थ्ये दृष्टान्तमाह यथैधांसीति। हे अर्जुन यथा अग्निः काष्ठेभ्यः स्वल्पतरोऽपि समिद्धः सन् सम्यक्प्रकारेण सन्धुक्षितः सन् एधांसि काष्ठानि भस्मसात्कुरुते तथा ज्ञानाग्निः ज्ञानरूपोऽग्निः सर्वकर्माणि भस्मसात्कुरुते भस्मरूपाण्यग्रेऽस्य फलभोगजननासमर्थानि कुरुते।