Sbg 4.34 scjaya
Sanskrit Commentary By Sri Jayatritha ।।4.34।।तद्विद्धि इत्युक्तत्वात् इदानीमर्जुनो न ज्ञानीति प्रतीतिं निवारयति इदानीमपी ति।तद्विद्धि इत्यधिकज्ञानच्चैमुक्तमिति भावः। ज्ञानी चेत्तर्हियज्ज्ञात्वा 4।35 इति तस्य मोहः कथमुच्यते इत्यत आह तथापी ति। अभिभवात् ज्ञानस्य। अर्जुनस्य ज्ञानित्वे सिद्धे भवेदेतत्। तत्रैव किं प्रमाणं इत्यत आह मा त्वि ति।