Sbg 4.25 scvv

From IKS BHU
Revision as of 11:41, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha


।।4.25।।उक्तार्थसङ्गतिपूर्वकंदैवमेव इत्यादेःप्राणान्प्राणेषु जुह्वति 4।30 इत्यन्तस्य प्रघट्टकस्यार्थमाह एवं कर्मण इति। देवसम्बन्धि दैवम् तत्सम्बन्धित्वं च तदर्चनरूपत्वमितिदेवार्चनरूपमित्युक्तम्।दैवमेव इत्यवधारणेनअपरे इत्यादिना च विकल्पः सिद्धः ततश्च देवसम्बन्धमात्रं साधारणं नात्र वाच्यम् अतोऽर्चनशब्देन वक्ष्यमाणयागहोमादिभ्यो व्यावृत्तिः सूचिता। यागादेरपि देवार्चनत्वेऽपि तत्तद्देवतारूपादिसपर्यायां ह्यर्चनशब्दः प्रसिद्धः।कर्मयोगेन योगिनाम् 3।3 इत्युपक्रमवदत्रापि योगिशब्दः कर्मयोगनिष्ठविषय इति ज्ञापनायकर्मयोगिन इत्युक्तम्। दैवस्य यज्ञत्वेन दृष्टिरत्र विधीयत इति भ्रमव्युदासाय निरन्तरानुष्ठानप्रयुक्तचरणपर्यायेण व्याख्याति सेवन्त इति।सेवा भक्तिरुपास्तिः इति नैघण्टुकाः। अत्रसेवोपासनशब्दौ सेव्यं प्रति करणत्रयस्यानुकूलवृत्तिनैरन्तर्यपरौ न तु ध्यानमात्रपरौ भक्तिशब्दस्तु ध्यानस्य प्रीतिरूपतां वक्ति। ननु मन्वादिभिःदेवताभ्यर्चनं चैव समिदाधानमेव च मनुः2।176 इति नित्यकर्मतया स्मरणाद्देवतार्चनरूपो यज्ञः सर्वेषामपि कर्मयोगिनामवश्यकर्तव्यः स कथं विकल्प्यत इत्यत्राह तत्रैव निष्ठां कुर्वन्तीत्यर्थ इति।


ननुब्रह्मार्पणं इत्यत्र श्लोके कश्चित्कर्मयोगभेदोऽभिहितः अर्पणहविरग्न्यादिविशेषनिर्देशेनावान्तरभेदप्रतीतेः। तत्र चतेन इति कर्ताऽपि निर्दिष्टः तत्प्रतियोगिकोऽयमपरशब्द इति किं नाङ्गीक्रियते तदुच्यते ब्रह्मार्पणं इति श्लोको न कर्मयोगस्वरूपभेदविषयः किन्तु सर्वेषामपि कर्मयोगानां ब्रह्मात्मकत्वानुसन्धानाख्यसाधारणगुणविषयः तत्रैवब्रह्मकर्मसमाधिना 4।24 इति सामान्येनोक्तेः। अतोऽर्पणहविरादिग्रहणं तत्तत्कर्मयोगभेदापेक्षिततत्तत्कारकविशेषोपलक्षणार्थम्। अत एव निवृत्तिलक्षणयज्ञप्रसङ्गात्दैवमेवापरे इत्यादिभिः प्रवृत्तिलक्षणयज्ञोक्तिरिति परोक्तं परास्तम्।ब्रह्माग्नावपरे यज्ञम् इत्यत्र यज्ञस्वरूपस्य परमात्मादेर्वा साक्षाद्धोतव्यत्वहोमसाधनत्वानुपपत्तेर्यज्ञसाधनलक्षणया द्वितीयान्तयज्ञशब्दो हविर्विषयः तृतीयान्तस्तु स्रुगादिविषय इत्याह अत्रेति। ननुब्रह्माग्नौ ब्रह्मणा हुतम् इति पूर्वमेवोक्तम् अत्रापिब्रह्माग्नावपरे इत्युच्यते अतोऽत्रयज्ञं यज्ञेन इत्यनयोरर्थोऽन्यथा वर्णनीयः इतरथा पौनरुक्त्यप्रसङ्गः सर्वकर्मयोगसाधारणस्यार्थस्य विशेषतया निर्देशोऽप्यनुपपन्न इत्यत्राहब्रह्मार्पणं ब्रह्महविरिति न्यायेनेति। अत्र यज्ञशब्दाज्जुह्वतिशब्दाच्च यागहोमयोर्निष्ठाया एव विवक्षितत्वादवान्तरभेदत्वमपौनरुक्त्यं चोपपन्नमिति भावः। अत्राग्नित्वेन कल्पिते ब्रह्मणि यज्ञशब्दनिर्दिष्टं जीवमपूर्वं वा हविष्ट्वेन


परिकल्प्य प्रक्षिपन्तीत्यादिपरव्याख्यानानि शब्दवृत्तिपरिक्लेशादेव निरस्तानि। कर्मप्रकरणाच्चात्र सर्वत्र मानसयज्ञत्वक्लृप्तिपक्षोऽप्ययुक्तः।