Sbg 4.24 scjaya
Sanskrit Commentary By Sri Jayatritha ।।4.24।।ननु कर्मस्वरूपं प्रतिज्ञाय सङ्क्षेपविस्तराभ्यां प्रतिपाद्योपसंहृतं किमिदं ब्रह्मार्पणमित्यनेनोच्यते इत्यत आह ज्ञानावस्थिते ति। एतेनइति यो जानाति इत्यध्याहारोऽत्र सूचितो भवति। अत्रार्पणादेः ब्रह्मस्वरूपत्वमुच्यत इत्यन्यथा प्रतीतिनिरासायाह सर्वमि ति। कुत एतदित्यत आह उक्तं ही ति। सर्वस्य भगवदधीनत्वे प्रमाणमाह सर्वमि ति। प्रज्ञा ब्रह्म नेत्रं नेतृ यस्य तत्तथोक्तम्।एतं हि इत्यनेन सर्वान्तर्यामित्वमुच्यते ब्रह्मकर्म ब्रह्मविषयः समाधिर्यस्यासौ तथोक्त इति व्याख्यानं प्रक्रमविरुद्धमिति भावेनान्यथा व्याख्याति समाधिने ति। समाधिरपि ब्रह्मेत्यर्थः।