Sbg 4.18 scmad
Sanskrit Commentary By Sri Madhavacharya ।।4.18।।कर्मादिस्वरूपमाह कर्मणीति। कर्मणि क्रियमाणे सत्यकर्म यः पश्येत् विष्णोरेव कर्म नाहं चित्प्रतिबिम्बः किञ्चित्करोमीति। अकर्मणि सुप्त्यादावकरणावस्थायाम्। परमेश्वरस्य यः कर्म पश्यति अयमेव परमेश्वरः सर्वदा सर्वसृष्ट्यादिकं करोतीति स बुद्धिमान् ज्ञानी स एव स युक्तो योगयुक्तः। सर्वाकरणाप्स एव च कृत्स्नकर्मकृत कृत्स्नफलवत्त्वात्।