Sbg 4.14 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।4.14।।कर्माणि विश्वसर्गादीनि मां निरहंकारत्वेन कर्तृत्वाभिमानहीनं भगवन्तं न लिम्पन्ति देहारम्भकत्वेन न बध्नन्ति। एवं कर्तृत्वं निराकरोति न मे ममाप्तकामस्य कर्मफले स्पृहा तृष्णा।आप्तकामस्य का स्पृहा इति श्रुतेः। कर्तृत्वाभिमानफलस्पृहाभ्यां हि कर्माणि लिम्पन्ति तदभावान्न मां कर्माणि लिम्पन्ति इति एवं योऽन्योऽपि मामकर्तारमभोक्तारं चात्मत्वेनाभिजानाति कर्मभिर्न स बध्यते। अकर्त्रात्मज्ञानेन मुच्यत इत्यर्थः।