Sbg 4.10 scjaya
Sanskrit Commentary By Sri Jayatritha ।।4.10।।किं चोत्तरश्लोकेऽधिकानुवादान्नात्रैतावन्मात्रं विवक्षितमिति भावेन तात्पर्यमाह सन्ति चे ति। तथोक्तज्ञानेन आह श्रद्धोत्पादनार्थमिति शेषः। मन्मया मदात्मका इति प्रतीनिरासार्थमाह मन्मया इति। सर्वेषां भगवान् प्रचुरः को विशेषो ज्ञानिना इत्यत आह सर्वत्रे ति। सर्वेषु पदार्थेषु किञ्चित्सत्तादिकम्। मदायत्तमेव सर्वे पश्यन्तीत्यर्थः।