Sbg 4.7 scanand
Sanskrit Commentary By Sri Anandgiri ।।4.7।।यदीश्वरस्य मायानिबन्धनं जन्मेत्युक्तं तस्य प्रश्नपूर्वकं कालं कथयति तच्चेत्यादिना। चातुर्वर्ण्ये चातुराश्रम्ये च यथावदनुष्ठीयमाने नास्ति धर्महानिरिति मन्वानो विशिनष्टि वर्णेति। वर्णैराश्रमैस्तदाचारैश्च लक्ष्यते ज्ञायते धर्मस्तस्येति यावत्। धर्महानौ समस्तपुरुषार्थभङ्गो भवतीत्यभिप्रेत्याह प्राणिनामिति। नच यथोक्तस्य धर्मस्य हानिं सोढुं शक्तो भवानित्याह भारतेति। न केवलं प्राणिनां धर्महानिरेव भगवतो मायाविग्रहस्य परिग्रहे हेतुरपि तु तेषामधर्मप्रवृत्तिरपीत्याह अभ्युत्थानमिति। यदा यदेति पूर्वेण संबन्धः।