Sbg 4.5 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।4.5।।तत्र सर्वज्ञत्वेन प्रथमस्य परिहारं कथयति श्रीभगवान् जन्मानि लीलादेहग्रहणानि लोकदृष्ट्यभिप्रायेणादित्यस्योदयवन्मे मम बहूनि व्यतीतानि। तव चाज्ञानिनः कर्मार्जितानि देहग्रहणानि। तवचेत्युपलक्षणमितरेषामपि जीवानां जीवैक्याभिप्रायेण वा। हे अर्जुन श्लेषेण अर्जुनवृक्षनाम्रा संबोधयन्नावृतज्ञानत्वं सूचयति। तानि जन्मान्यहं सर्वज्ञः सर्वशक्तिरीश्वरो वेद जानामि। सर्वाणि मदीयानि त्वदीयान्यन्यदीयानि च। न त्वमज्ञो जीवस्तिरोभूतज्ञानक्तिर्वेत्थ न जानासि स्वीयान्यपि किं पुनः परकीयाणि। हे परंतप परं शत्रुं भेददृष्ट्या परिकल्प्य हन्तुं प्रवृत्तोऽसीति विपरीतदर्शित्वाद्भ्रान्तोऽसीति सूचयति। तदनेन संबोधनद्वयेनावरणविक्षेपौ द्वावप्यज्ञानधर्मौ दर्शितौ।