Sbg 4.4 scsri
Sanskrit Commentary By Sri Sridhara Swami ।।4.4।। भगवतो विवस्वन्तं प्रति योगोपदेशासंभवं पश्यन्नर्जुन उवाच अपरमिति। अपरमर्वाचीनं तव जन्म परं प्राक्कालीनं विवस्वतो जन्म तस्मात्तवाधुनिकत्वाच्चिरंतनाय विवस्वते त्वमादौ योगं प्रोक्तवानित्येतत्कथमहं विजानीयां ज्ञातुं शक्नुयाम्।