Sbg 4.4 scjaya
Sanskrit Commentary By Sri Jayatritha ।।4.4।।ननुनत्वेवाहं 2।12 इत्यादिना सर्वप्रकारेणोत्पत्तिविनाशराहित्यमुक्तं भगवतः तच्छ्रुत्वा कथंअपरं इति पृच्छति इत्यत आह मयी ति। तन्माहात्म्य मित्युपलक्षणम्। आदितः प्रमितिकारणतः।मयि सर्वाणि 3।30 इत्यत्र परमेश्वरस्य माहात्म्यं पूज्यत्वादिलक्षणमुक्तम्। अर्जुनस्य पूजकत्वादिकम्। तमिममीश्वरजीवयोः पूज्यपूजकत्वादिना भगवताऽङ्गीकृतं भेदं प्रमाणेन ज्ञातुमेवं पृच्छतीत्यर्थः।