Sbg 3.39 scdhan

From IKS BHU
Revision as of 17:48, 3 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।3.39।।इदंशब्दवाच्यं दर्शयति आवृतमिति। एतेन कामेन ज्ञानं विवेकरुपमावृतं ज्ञानिनो नित्यवैरिणा। ज्ञानी हि तदुत्पत्तिकालेऽपि जानात्यनेनाहमनर्थे नियोजित इति। तत आरभ्यैव दुःखी भवति। तेनासौ ज्ञानिनो नित्यवैरी नतु मूर्खस्य। स हि कामं तदुत्पत्तिकाले मित्रमिव पश्यन् तदानीमहमनेन दुःखे नियोजित इति न जानाति किंतु तत्कार्ये दुःखे प्राप्तेऽतस्तस्य नायं नित्यवैरी। केन रुपेण वैरीत्यत आह। कामः कामनेच्छैव रुपं यस्य तेन दुःखेन पूरणमस्य तेन। कुत इत्यत आह। नालं पर्याप्तिरस्य विद्यत इत्यनलः तेन। यो हि कदाचित्तृप्तिं गच्छति स पूरयितुं शक्यः अयं तु न तथेत्यर्थः। चकार उपमार्थः। अनलेन बह्निनेवेति व्याख्यानं तु सुगमत्वादाचार्यैरुपेक्षितम्। यत्तु ज्ञायतेनेनेति ज्ञानमन्तःकरणमिति तदुपेक्ष्यम्। ज्ञानविज्ञाननाशनमित्यनुरोधेनात्रापि विवेकज्ञानग्रहणस्यौचित्यात्। कौन्तेय इति संबोधयन् संबन्धिवियोगो मा भवत्वित्येवंरुपेण कामेनैवावृतज्ञानस्त्वमपि स्त्रीस्वभावे शोकमोहरुपे नियोजितोऽसीति ध्वनयति।