Sbg 3.39 scjaya

From IKS BHU
Revision as of 17:48, 3 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Jayatritha ।।3.39।।एवं ज्ञेयज्ञानकरणज्ञातृप्रतिबन्धकत्वोक्त्या ज्ञानप्रतिबन्धकत्वमुक्तम्।आवृतं ज्ञानं इत्यनेन पुनः किमुच्यत इत्यत आह शास्त्रत इति। पूर्वं ज्ञानोत्पत्तिप्रतिबन्धकत्वमुक्तं इदानीं तु कथञ्चिज्जातमपि ज्ञानं न स्वकार्याय प्रभवतीत्युच्यते। अतो न पुनरुक्तिदोष इति भावः।कामकारेण चैके ब्र.सू.3।4।15 इति वचनात्। अपरोक्षज्ञानस्य मोक्षसाधने न केनापि प्रतिबन्ध इत्यत उक्तं शास्त्रत इति। परमात्मापारोक्ष्यायेति च। न प्रकाशते न प्रभवति। ज्ञानिन इति व्यर्थम्। ज्ञानस्य ज्ञानिसम्बन्धाव्यभिचारादित्यत आह ज्ञानिनोऽपी ति शास्त्रजनितज्ञानवतोऽपि। अल्पज्ञानिनो गुरूपदेशमात्रजनितज्ञानवतः। अपरे तु ज्ञानिनो नित्यवैरिणा न मूर्खस्य। ज्ञानी हि विनाशयिष्यामि काममिति यतते मूर्खस्तु तमनुवर्तते इति वर्णयन्ति तदनेनैव निरस्तम्। अपकारित्वं खल्वत्र वैरित्वं विवक्षितं तच्च ज्ञान्यपेक्षया मूर्खेऽधिकं न हि मूर्खस्तं नानुसन्धत्त इत्येतावता तत्रास्ति।इच्छानुरूपं रूपं यस्यासौ कामरूपः इत्युच्यते। न चैतत्कामेऽन्तःकरणधर्मे सम्भवतीत्यत आह कामे ति रूप्यतेऽनयेति रूपमाख्याऽत्र विवक्षितेत्यर्थः। तर्हि विशेषणपदमिदं जातं किमस्य विशेष्वं इत्यत आह नित्ये ति। यो न पूरयितुं शक्यः स दुष्पूरः। कामस्तु विषयसम्पादनेन पूरयितुं शक्यः। कथं दुष्पूरः इत्यतोऽन्यथा व्याचष्टे दुष्पूरेणे ति। न नञर्थे दुःशब्दः किन्तु कृच्छ्रार्थ इत्यर्थः। तदुपपादयति न ही ति। कामविषयोपलक्षणमेतत्। ननु प्रज्वलनात्मकत्वात्क्रोधोऽनलो युक्तः कामस्तु कथमनलः इत्यतः सोपपत्तिकमन्यथा व्याचष्टे यद्यपी ति। इदमपि प्राप्तादधिकस्योपलक्षणम्। श्लोकद्वयार्थे प्रमाणसम्मतिमाह उक्तं चे ति। कामकः कुत्सितकामो ज्ञानस्य ब्रह्मणश्चाग्नेर्धूमः। तथा बुद्धेरन्तःकरणस्यादर्शस्य मलम्। अथ जीवस्य गर्भस्योल्ब इति सर्वत्र गूढोपमाएतेनेदं इत्युक्तस्य विवरणं द्वितीयश्लोक इति व्याख्यानमपाकृतं भवति।