Sbg 3.38 scsh
Sanskrit Commentary By Sri Shankaracharya ।।3.38।। धूमेन सहजेन आव्रियते वह्निः प्रकाशात्मकः अप्रकाशात्मकेन यथा वा आदर्शो मलेन च यथा उल्बेन च जरायुणा गर्भवेष्टनेन आवृतः आच्छादितः गर्भः तथा तेन इदम् आवृतम् ।।किं पुनस्तत् इदंशब्दवाच्यं यत् कामेनावृतमित्युच्यते