Sbg 3.37 scang
Sanskrit Commentary By Sri Abhinavgupta ।।3.37।।अत्र उत्तरं सत्यपि धर्मे हृदिस्थे आगन्तुकावरणकृतोऽयं (N काचरणकृ ) विप्लवो न तु तदभवकृतः (N तदभावप्लुतः) इत्याशयेन।काम एष इति। द्वाभ्यामेतच्छब्दाभ्यामनयोरत्यन्तावैषम्यं (S अत्यन्तवैषम्यम्) सूच्यते। एतौ च कामक्रोधौ नित्यसंबन्धिनौ अन्योन्याविनाभावेन वर्तेते इत्येकरुपतयैव व्याचष्टे। एष च महस्य सुखस्य अशनः ग्रासकारकः महतः पापस्य हेतुत्त्वाच्च क्रोध एव पापदायी। एनं च वैरिणं प्राज्ञो जानीयात्।