Sbg 3.34 scmad
Sanskrit Commentary By Sri Madhavacharya ।।3.34।।तथापि शक्तितो निग्रहः कार्यः। निग्रहात्सद्यः प्रयोजनाभावेऽपि भवत्येवातिप्रयत्नत इत्याशयवानाह इन्द्रियस्येति। तथा ह्युक्तम् संस्कारो बलवानेष ब्रह्माद्या अपि तद्वशाः। तथापि सोऽन्यथाकर्तुं शक्यतेऽतिप्रयत्नतः इति।