Sbg 3.33 scjaya
Sanskrit Commentary By Sri Jayatritha ।।3.33।।सदृशं इति श्लोकस्य सङ्गतिर्न प्रतीयतेऽतस्तामाह एवं चेदि ति। यदि त्वन्मतानुष्ठाने मोक्षः अन्यथा नाश इत्यर्थः। मूलप्रकृतेरेकत्वात्कथं स्वस्या इति प्रातिस्विकत्वमुच्यते इत्यत आह प्रकृति रिति तत्कार्यौ रागद्वेषौ उपलक्ष्येते।