Sbg 3.33 scang
Sanskrit Commentary By Sri Abhinavgupta ।।3.33।।सदृशमिति। योऽपि च ज्ञानी न तस्य व्यवहारे भोजनादौ विपर्यासः कश्चित्। अपि तु सोऽपि सत्त्वाद्युचितमेव चेष्टते एवमेव जानन्। यतः ( N अतः) भूतानां पृथिव्यादीनां प्रकृतौ विलयः आत्मा च अकर्ता नित्यमुक्त इति कस्य जन्मादिनिग्रहः।