Sbg 3.30 scram
Sanskrit Commentary By Sri Ramanuja ।।3.30।।मयि सर्वेश्वरे सर्वभूतान्तरात्मभूते सर्वाणि कर्माणि अध्यात्मचेतसा संन्यस्य निराशीः निर्ममो विगतज्वरः युद्धादिकं सर्वं चोदितं कर्म कुरुष्व। आत्मनि यत् चेतः तद् अध्यात्मचेतः आत्मस्वरूपविषयेण श्रुतिशतसिद्धेन ज्ञानेन इत्यर्थः।
अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा ৷৷. अन्तः प्रविष्टं कर्तारमेतम् (तै0 आ0 3।11)य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद। यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृतः (बृ0 5।7 मा0 दि0) इत्येवमाद्याः श्रुतयः परमपुरुषप्रवर्त्यं तच्छरीरभूतम् एनम् आत्मानं परमपुरुषं च प्रवर्तयितारम् आचक्षते। स्मृतयश्च प्रशासितारं सर्वेषाम् (मनु0 12।122) इत्याद्याःसर्वस्य चाहं हृदि सन्निविष्टः (गीता 15।15) ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया।।(गीता 18।61) इति वक्ष्यते।अतो मच्छरीरतया मत्प्रवर्त्यात्मस्वरूपानुसन्धानेन सर्वाणि कर्माणि मया एव क्रियमाणानि इति मयि परमपुरुषे संन्यस्य तानि च केवलं मदाराधनानि इति कृत्वा तत्फले निराशीः तत एव तत्र कर्मणि ममतारहितो
भूत्वा
विगतज्वरो युद्धादिकं कुरुष्व।स्वकीयेन आत्मना कर्त्रा स्वकीयैः एव करणैः स्वाराधनैकप्रयोजनाय परमपुरुषः सर्वेश्वरः सर्वशेषी स्वयम् एव स्वकर्माणि कारयति इति अनुसन्धाय कर्मसु ममतारहितः प्राचीनेन अनादिकालप्रवृत्तानन्तपापसञ्चयेनकथम् अहं भविष्यामि इत्येवं भूतान्तर्ज्वरविनिर्मुक्तःपरमपुरुष एव कर्मभिः आराधितो बन्धात् मोचयिष्यति इति स्मरन् सुखेन कर्मयोगम् एव कुरुष्व इत्यर्थः।तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम्। (श्ेवता 3।7)पतिं विश्वस्य (म0 ना0 3।1)पतिं पतीनाम् (श्वेता 6।7) इत्यादिश्रुतिसिद्धं हि सर्वेश्वरत्वं सर्वशेषित्वं च। ईश्वरत्वं नियन्तृत्वम् शेषित्वं पतित्वम्।।अयम् एव साक्षादुपनिषत्सारभूतः अर्थ इत्याह