Sbg 3.29 scdhan

From IKS BHU
Revision as of 17:46, 3 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।3.29।।विद्वत्स्वरुपमविद्वत्स्वरुपं च प्रकृतमुपपाद्य विद्वानविदुषो बुद्धिभेदनं न कुर्यादित्युपसंहरति प्रकृतेरिति। प्रकृतेः प्रधानस्य मायाशक्तेर्गुणैर्विकारैः कार्यकरणरुपैः सम्यग्मूढाः स्वस्वरुपास्फुरणेन तानेवात्मतया मन्यमानास्तेषामेव गुणानां कर्मसु व्यापारेषु सज्जन्ते। वयं कुर्मः फलायेति दृढतस्वकीयबुद्धिं कुर्वन्ति ये तान्कर्मसङ्गिनोऽतएवाकृत्स्त्रविद आत्मज्ञानशून्यान् यतो मन्दप्रज्ञान् कृत्स्त्रविदात्मवित्आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् इतिश्रुत्यात्मविदः कृतस्त्रवित्त्वप्रतिपादनात् स्वयं न विचालयेत्। बुद्धिभेदं न कुर्यादित्यर्थः। प्रकृतेर्गुणैः सत्त्वादिभिरिति व्याख्यानं तु भाष्यविरुद्धम्। प्रकृतेः क्रियमाणानि गुणैरित्यत्रेन्द्रियैरिति स्वोत्त्यननुरुपं च। एतेन गुणेष्विन्द्रियेषु तत्कर्मसु च प्रकृतेः संबन्धिषु गुणेषु देहादिषु कर्मसु गमनादिषु चेति व्याख्यानद्वयमपि प्रत्युक्तम्। देहेन्द्रियाद्यासक्तेर्गुणसंमूढा इत्यनेनैवोक्तत्वात्। प्रकृतेरित्यस्य गुणकर्मस्वित्यनेन संबन्धस्य प्रयोजनशून्यत्वाच्च।