Sbg 3.29 scsri
Sanskrit Commentary By Sri Sridhara Swami ।।3.29।।न बुद्धिभेदं जनयेदित्युक्तमुपसंहरति प्रकृतेरिति। यैः प्रकृतेर्गुणैः सत्त्वादिभिः संमूढाः सन्तो गुणेष्विन्द्रियेषु तत्कर्मसु च सज्जन्ते वयं कुर्म इति तानकृत्स्नविदो मन्दमतीन्कृत्स्नवित्सर्वज्ञो न विचालयेत्।