Sbg 3.29 scjaya
Sanskrit Commentary By Sri Jayatritha ।।3.29।।प्रकृतेर्गुणसम्मूढाः इत्यत्र गुणशब्दस्य विवक्षितमर्थं वदन् विग्रहं दर्शयति प्रकृतेरि ति। नित्यसापेक्षत्वाद्गुणशब्दस्य नासामर्थ्यमिति प्रदर्शनायप्रकृतेः इत्यनुवादः। देवदत्तस्य गुरुकुलमिति यथा। प्रकृतेर्गुणसम्मूढत्वात् सज्जन्ते गुणकर्मस्विति हेतुहेतुमद्भावोऽत्र विवक्षितः अन्यथा वैयर्थ्यापत्तेः तमुपपादयति इन्द्रियादी ति। अभिमानो ममैवैतानि स्वातन्त्र्येण करणानीति भ्रमः। विषयादीत्युक्त्या गुणशब्दोऽत्र विषयार्थ इति दर्शयति। आदिशब्देन कर्मग्रहणम्। विषयेषु सङ्गः स्नेहादिः कर्मसु स्वातन्त्र्यभ्रमः।गुणानां कर्मसु इति केनचित् (शं.) व्याख्यातं तदसदिति भावेन द्वन्द्वोऽयमिति दर्शयति गुणे ति द्वन्द्वपरिग्रहेऽधिकार्थलाभात्। अनेन विषयादीत्येतदपि समर्थितं भवति। गुणशब्दस्योक्तानेकार्थत्वं कुतः इत्यत आह शब्दाद्या इति। निरुच्यत इति निरुक्तिः शब्दार्थः निरुक्तिं गच्छन्त्यवगच्छन्तीति निरुक्तिगाः। अस्तु गुणशब्दस्यानेकेष्वर्थेषु शक्तिः तथापि विवक्षाऽत्रैकस्यैवार्थस्य युक्ता अन्यथा न ह्येकशब्देनेत्युक्तविरोधात्। शब्दो हि यमर्थमादौ स्मारितवान् स एवार्थो बुद्धौ सन्निहितः पुनरुच्चारितेन स्मारयितुं युक्तः तथा चात्र सर्वत्र सत्त्वादय एव ग्राह्याः। तद्ग्रहणे शब्दादीनामपि तदात्मकानां ग्रहणसम्भवादित्यत आह सत्त्वादी ति। कर्तृत्वाधारत्वयोरेकत्र विरोधादिति भावः। तदात्मकानामिन्द्रियादीनामुपलक्षणे सति वृथा प्रयासः। अनयैवानुपपत्त्याऽनेकार्थग्रहणोपपत्तेः।