Sbg 3.28 scsh
Sanskrit Commentary By Sri Shankaracharya ।।3.28।। तत्त्ववित् तु महाबाहो । कस्य तत्त्ववित् गुणकर्मविभागयोः गुणविभागस्य कर्मविभागस्य च तत्त्ववित् इत्यर्थः। गुणाः करणात्मकाः गुणेषु विषयात्मकेषु वर्तन्ते न आत्मा इति मत्वा न सज्जते सक्तिं न करोति।।ये पुनः