Sbg 3.27 scram
Sanskrit Commentary By Sri Ramanuja ।।3.27।। प्रकृतेः गुणैः सत्त्वादिभिः स्वानुरूपं क्रियमाणानि कर्माणि प्रति अहंकारविमूढात्मा अहं कर्ता इति मन्यते। अहंकारेण विमूढ आत्मा यस्य असौ अहंकारविमूढात्मा अहंकारो नाम अनहमर्थे प्रकृतौ अहम् इति अभिमानः तेन अज्ञातात्मस्वरूपो गुणकर्मसु अहं कर्ता इति मन्यते इत्यर्थः।