Sbg 3.26 scang
Sanskrit Commentary By Sri Abhinavgupta ।।3.26।।यतस्ते न (S स्ते सम्य ) सम्यग्ज्ञानेन पूताः अतो बुद्धेर्भेदनं विचालनं ( N विगलनम्) तेषां परमोऽयमनर्थ इत्यनुग्रहाय भेदयेन्न धियमेषाम् तदाह (S एतदाह) न बुद्धीति। स्वयं चैवं बुद्ध्यमानः कर्माणि कुर्यात् न च लोकानां बुद्धिं भिन्द्यात्।