Sbg 3.23 scram
Sanskrit Commentary By Sri Ramanuja ।।3.23।।अह सर्वेश्वरः सत्यसंकल्पः स्वसंकल्पकृतजगदुदयविभवलयलीलः स्वच्छन्दतो जगदुपकृतये मर्त्यो जातः अपि मनुष्येषु शिष्टजनाग्रेसरवसुदेवगृहे अवतीर्णः तत्कुलोचिते कर्मणि अतन्द्रितः सर्वदा यदि न वर्तेयम् मम शिष्टजनाग्रेसरवसुदेवसूनोः वर्त्म अकृत्स्नविदः शिष्टाः च सर्वप्रकारेणअयम् एव धर्मः इति अनुवर्तन्ते ते च स्वकर्तव्याननुष्ठानेन अकरणे प्रत्यवायेन च आत्मानम् अनुपलभ्य निरयगामिनो भवेयुः।