Sbg 3.16 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।3.16।।भवत्वेवं ततः किं फलितमित्याह आदौ परमेश्वरात्सर्वावभासकनित्यनिर्दोषवेदाविर्भावः ततः कर्मपरिज्ञानंततोऽनुष्ठानाद्धर्मोत्पादः ततः पर्जन्यस्ततोऽन्नं ततो भूतानि पुनस्तथैव भूतानां कर्मप्रवृत्तिरित्येवं परमेश्वरेण प्रवर्तितं चक्रं सर्वजगन्निर्वाहकं यो नानुवर्तयति नानुतिष्ठति सोऽघायुः पापजीवनो मोघं व्यर्थमेव जीवति। हे पार्थ तस्य जीवनान्मरणमेव वरम्। जन्मान्तरे धर्मानुष्ठानसंभवादित्यर्थः। तथाच श्रुतिःअथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते तेन देवानां लोकोऽथ यदनुब्रूते तेन ऋषीणामथ यत्पितृभ्यो निपृणाति यत्प्रजामिच्छते तेन पितृ़णामथ यन्मनुष्यान्वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयांस्यापिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः इति। ब्रह्मविदं व्यावर्तयति इन्द्रियाराम इति। यत इन्द्रियैर्विषयेष्वारमति अतः कर्माधिकारी संस्तदकरणात्पापमेवाविचिन्वन्व्यर्थमेव जीवतीत्यभिप्रायः।