Sbg 3.16 scjaya

From IKS BHU
Revision as of 17:42, 3 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Jayatritha ।।3.16।।नन्वत्र कार्यकारणपरम्परैवोक्ता न चक्रं तत्कथं उच्यतेएवं प्रवर्तितं चक्रम् इति तत्राह तानि चे ति। तानि वेदाख्यानि। चक्राप्रवृत्तौ कथमघायुष्ट्वादिकं इत्यतो व्याचष्टे तदेतदि ति। आयुषोऽघत्वाभावात् कथमघायुः इत्यत आह पापे ति। तादर्थ्यात्ताच्छब्द्यमित्यर्थः।