Sbg 3.14 scdhan
Sanskrit Commentary By Sri Dhanpati ।।3.14।। जगच्चक्रप्रवृत्तिहेतुत्वादप्यधिकृतेन कर्म कर्तव्यमित्याह अन्नादिति। अन्नाद्भुक्ताद्रेतआदिरुपेण परिणतात् भूतानि प्राणिशरीराणि भवन्ति पर्जन्याद्वृष्टेरन्नस्य संभव उत्पत्तिः यज्ञादपूर्वात्पर्यन्यो भवति। तदुक्तंअग्नौ प्रास्ताहुतिः सभ्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः इति। यज्ञः कर्मणः ऋत्विग्यजमानव्यापारात्समुद्भवो यस्य सः।