Sbg 3.14 scjaya
Sanskrit Commentary By Sri Jayatritha ।।3.14।।अन्नात् इत्यादेः सङ्गतिमाह हेत्वन्तर मिति।अत्र इत्यनुवर्तते अत्र पर्जन्यो मेघ आदित्यश्च विवक्षितौ तत्रादित्यस्य पूर्वसिद्धस्य कथंयज्ञाद्भवति पर्जन्यः इति यज्ञः कारणत्वेनोच्यते इत्यत आह यज्ञ इति। यद्यपि यज्ञो देवतामुद्दिश्य द्रव्यपरित्याग इति वक्ष्यति तथाप्यत्र परित्यज्यमानं द्रव्यं गृह्यते तस्य पर्जन्यान्नत्वात्पर्जन्योपभोग्यत्वात् उपभुक्तेन च तस्य बलाद्युपचयाद्यज्ञस्तस्य पर्जन्यस्य कारणमुच्यते। ननु पर्जन्यो देवतात्मा यज्ञेन पर्जन्यत्वं प्राप्तः स यज्ञो विवक्षितोऽत्रास्तु तथा सति यज्ञात्पर्जन्योद्भवो मुख्य एव सम्पत्स्यत इति नेत्याह पूर्वे ति तस्य पर्जन्यपदप्राप्तिहेतोः। यज्ञस्येति शेषः। ननु तदा चक्रं प्रवृत्तमेव अतः कथं पूर्वयज्ञस्य चक्राप्रवेशः इत्यत आह तद्धी ति। तच्चक्रमापाद्यं ह्यत्र विवक्षितम् न तु प्रागापादितम् कुतः कर्मविधये ह्येतदुच्यते। यदि विहितं कर्म करिष्यसि तर्हि जगच्चक्रप्रवृत्तिर्भविष्यति अन्यथा तद्विघातः अतस्त्वया कर्म कर्तव्यमिति। कर्मविध्युपयोगिता चापाद्यस्यैव न त्वापादितस्य। आपाद्ये च यज्ञव्यक्तिविशेषस्य पर्जन्यपदप्राप्तिहेतोर्न प्रवेश इत्यर्थः। प्राक् पर्जन्येन कर्म कृतं तेन च यज्ञादिद्वारा चक्रं प्रवृत्तम् अतस्त्वयाऽपि कर्म कर्तव्यमित्येवं प्रागापादितचक्रोक्तिरपि कर्मविध्युपयोगिनी भवतीति चेत् मैवम्। अत इति कोऽर्थः त्वत्कर्मणाऽपि चक्रप्रवृत्तिसम्भवादितिवा कर्मत्वादिति वा। नाद्यः इदानीन्तनपुरुषकर्मजेन यज्ञेन पर्जन्योत्पत्त्यसम्भवेन चक्राप्रवृत्तेः। न हि सर्वेऽपि कर्मकारिणः पर्जन्यत्वं प्राप्नुवन्ति। द्वितीयं दूषयति न त्वि ति। फलरहितेन कर्मत्वसामान्येनेदानीं कर्म कार्यं न भवति स्वयं क्लेशरूपत्वादिति। प्रकारान्तरेणापियज्ञाद्भवति पर्जन्यः इत्येतद्दर्शयितुमाह मेघे ति। चक्रं समूहः। ततः किम् इत्यत आह तच्चे ति। मेघचक्रम्। कुतः इत्यत आह अग्ना विति। ननुस्वकीयमुदकं नद्यः इति समुद्राद्वृष्टिरुच्यते अत आदित्याद्वृष्ट्यङ्गीकारे तद्विरोधः स्यादित्यत आह उभये ति। वृष्ट्यङ्गीकारादिति शेषः। वार्षिका मेघा इह वृष्टिशब्देनोच्यन्ते। ततोऽपि किम् इत्यत आह अतश्चे ति। प्राक् पर्जन्यस्य भवनं गौणमङ्गीकृत्य व्याख्यातम् इदानीं त्वभिमन्यमानगतस्य भवनस्याभिमानिनी लक्षणामाश्रित्येति भेदः। यद्वा अभिमानिगतस्य पर्जन्यशब्दस्य अभिमन्यमाने लक्षणामाश्रित्य द्वितीयं व्याख्यानम्। तात्पर्यनिर्णये तु मेघसन्ततौ पर्जन्यशब्दो यौगिकोऽङ्गीकृतः। ननु यज्ञः कर्मात्मकः तत्कथमुच्यतेयज्ञः कर्मसमुद्भवः इति तत्राह यज्ञ इति। इतरक्रिया यज्ञाङ्गभूता। अपूर्वाङ्गीकारे रूढित्यागेन लक्षणाश्रयणं स्यात्।