Sbg 3.12 scang
Sanskrit Commentary By Sri Abhinavgupta ।।3.12।।न केवलमित्थमपवर्गे यावत्सिद्धिलाभेऽपि अयं मार्गः अभ्यसनीय इत्याह इष्टानिति। यज्ञतर्पितानि हि इन्द्रियाणि स्थितिं बध्नन्ति यत्रक्वापि ध्येयादौ इति। अत एव तद्व्यापारे सति तेषां विषयाणां स्मृतिसंकल्पध्यानादिना भावाः विषयाः इन्द्रियैरेव दत्ताः। यदि तेषामेवोपभोगाय विषया (S K omit विषयाः) न दीयन्ते तर्हि स्तेनत्वं चौर्यं स्यात् छद्मचारित्वात्। उक्तं हि पूर्वमेव भगवता मूढाचारः स उच्यते (II 6 ) इति। अतो़ऽयं वाक्यार्थः यः सुखोपायं सिद्धिम् अपवर्गं वा प्रेप्सति तेन इन्द्रियकौतुकनिवृत्तिमात्रफलतयैव भोगा यथोपनतमासेव्या इति।