Sbg 3.11 scsh
Sanskrit Commentary By Sri Shankaracharya ।।3.11।। देवान् इन्द्रादीन् भावयत वर्धयत अनेन यज्ञेन। ते देवा भावयन्तु आप्याययन्तु वृष्ट्यादिना वः युष्मान्। एवं परस्परम् अन्योन्यं भावयन्तः श्रेयः परं मोक्षलक्षणं ज्ञानप्राप्तिक्रमेण अवाप्स्यथ । स्वर्गं वा परं श्रेयः अवाप्स्यथ।।किञ्च