Sbg 3.10 scang

From IKS BHU
Revision as of 17:40, 3 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Abhinavgupta ।।3.10।।सहेति। प्रजापतिः परमात्मा प्रजाः सहैव कर्मभिः ससर्ज। उक्तं च (N omits उक्तं च) तेन प्रजानां कर्मभ्य एव प्रसवः सन्तानः। एतान्येव च इष्टं संसारं मोक्षं वा दास्यन्ति संगात्संसारं मुक्तसंगत्वान्मोक्षम् इति ।